खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं ।

प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोल गण्डस्थलम् ।

दन्ताघातविदारितारिरुधिरै : सिन्दूरशोभाकरं ।

वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ।।


रक्ताम्बुजासनमशेष गुणैकसिन्धुं

भानुं समस्तजगतामधिपं भजामि ।

पद्मद्वयाभयवरान् दधतं कराब्जै 

र्माणिक्यमौलिमरुणाङ्ग रुचिं त्रीनेत्रम् ।।


सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै:

शङ्खं चक्रधनु: शराँश्च दधती नेत्रैस्त्रीभि: शोभिता ।

आमुक्ताङ्गदहारकङ्कणरणत् काञ्चीरणन्नूपुरा ।

दुर्गा दुर्गतिहारिणी भवतुनो रत्नोल्लसत्कुण्डला ।।


उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदा पङ्कजं ।

चक्रं बिभ्रतमिन्दिरा वसुमती संशोभिपार्श्वद्वयं ।।

कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभै ।

र्दिप्तं विश्वधरं स्ववक्षसी लसच्छ्रीवत्सचिह्न्नं भजे ।।


मन्दारमालाकुलितालकायै 

कपालमालाङ्कितशेखराय ।

दिव्याम्बरायै च दिगम्बराय 

नम: शिवायै च नम: शिवाय ।।


अतुलितबलधामं हेमशैलाभदेहं

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।

सकलगुणनिधानं वानराणामधीशं

रघुपतिप्रियभक्तं वातजातं नमामि।


सूर्य: सौर्यमथेन्दुरुच्चपदविं सन्मंगलं मङ्गल: ।

सद्बुद्धिंच बुधो गुरुश्च गुरुतां शुक्र: सुखं शं शनि: ।।

राहुर्बाहुबलं करोतु सततं केतु: कुलस्योन्नतिं ।

नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला: ग्रहा: ।।


बर्हापीडं नटवरवपु: कर्णयो कर्णिकारं 

बिभ्रद् वास: कनककपिशं वैजयन्तिं च मालाम् ।

रन्ध्रान् वेणो रधरसुधया पूजयन् गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकिर्ती : ।।


ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं 

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ।

वामांकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं

 नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम् ।।


ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।

ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ।।

ॐ राजाधिराजाय प्रसह्ये साहिने, नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान्कामकामाय मह्यम् , कामेश्वरो वैश्रवणो ददातु ।।


कुबेराय वैश्रवणाय महाराजाय नम: 

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौम: सार्वायु षान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति 

तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे

आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति 


ॐ विश्वतच्चक्षुरुत विश्वतोमुखोविश्वतोबाहुरुत विश्वतस्पात् ।

सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एक: ।


(गायत्री) 


इमानी पुष्पाणी मनोहराणी सुरासुराणामपी दुर्लभानी ।

कल्पद्रुमादिद्रुमजानी तानी पुष्पाञ्जलिर्मेऽस्तु सुखाय नित्यम् ।।


नाना सुगन्ध पुष्पाणी देशकालोद्भवानि च ।

पुष्पाञ्जलिर्मया दत्तं गृहाण परमेस्वर: ।।


(जयकार) 



पुष्पाञ्जली